This page has been fully proofread once and needs a second look.

याचकनिन्दा
 

394
 

भ्रातधीतर र्धातरशेषयाचकजने वैरायसे सर्वदा

यस्मादिक द्विक्रमशालिवाहनमहीभृन्मुञ्जभोजादयः ।

अत्यन्तं चिरजीविनो न वेविहितास्ते विश्वजीवातवो

मार्कण्डध्रुवलोमशप्रभृतयः सृष्टाः प्रभूतायुषः ॥ ३ ॥
 

395
 

उड्डीना गुणपत्रिणः सुखफलान्याराद्विकीर्णान्यधः

पर्यस्ताः परितो यशः स्तबकिता: संपल्लतापल्लवाः ।

प्रागेवापसृतः प्रमोदहरिणश्छाया कथान्तं गता

दैन्यारण्यमतङ्गजेन महता भग्नेभिमानद्रुमे ॥ ४ ॥
 

396
 

विद्यावत: कुलीनस्य धनं याचितुमिच्छतः ।

कण्डेठे पारावतस्येत्र वाक्करोति गतागतम् ॥ ५ ॥
 

397
 

दक्षिणाशाप्रवृत्तस्य प्रसारितकरस्य च ।

तेजस्तेजस्विनोर्कस्य हीयतेन्यस्य का कथा ॥ ६ ॥
 

398
 

गुरुतामुपयाति यन्मृतः

पुरुषस्तद्विदितं मयाधुना ।

ननु लाघवहेतुरर्थिता
 

न मृते तिष्ठति सा मनागपि ॥ ७ ॥
 

399
 

साधुरैरेवार्थिभिर्याच्यः क्षीणवित्तोपि सर्वदा ।
 

शुष्कोपि हि नदीमार्गः खन्यते सलिलार्थिभिः ॥ ८ ॥
 

400
 

तृणादपि लघुस्तूलस्तूलादपि हि याचकः ।
 

वायुना किं न नीतोसौ मामयं प्रार्थयिष्यति ॥ ९ ॥
 

केषामध्प्येते ।