2023-02-25 06:19:10 by ambuda-bot
This page has not been fully proofread.
याचकनिन्दा
394
भ्रातधीतर शेषयाचकजने वैरायसे सर्वदा
यस्मादिक मशालिवाहनमहीभृन्मुञ्जभोजादयः ।
अत्यन्तं चिरजीविनो न वेहितास्ते विश्वजीवातवो
मार्कण्डध्रुवलोमशप्रभृतयः सृष्टाः प्रभूतायुषः ॥ ३ ॥
395
उड्डीना गुणपत्रिणः सुखफलान्याराद्विकीर्णान्यधः
पर्यस्ताः परितो यशः स्तबकिता: संपलतापल्लवाः ।
प्रागेवापसृतः प्रमोदहरिणछाया कथान्तं गता
दैन्यारण्यमतङ्गजेन महता भनेभिमानद्रुमे ॥ ४ ॥
396
विद्यावत: कुलीनस्य धनं याचितुमिच्छतः ।
कण्डे पारावतस्येत्र वाकरोति गतागतम् ॥ ५ ॥
397
दक्षिणाशाप्रवृत्तस्य प्रसारितकरस्य च ।
तेजस्तेजस्विनोर्कस्य हीयतेन्यस्य का कथा ॥ ६ ॥
398
गुरुतामुपयाति यन्मृतः
पुरुषस्तद्विदितं मयाधुना ।
ननु लाघवहेतुरर्थिता
न मृते तिष्ठति सा मनागपि ॥ ७ ॥
399
साधुरैवार्थिभिर्याच्यः क्षीणवित्तोपि सर्वदा ।
शुष्कोपि हि नदीमार्गः खन्यते सलिलार्थिभिः ॥ ८ ॥
400
तृणादपि लघुस्तूलस्तूलादपि हि याचकः ।
वायुना किं न नीतोसौ मामयं प्रार्थयिष्यति ॥ ९ ॥
केषामध्येते ।