This page has not been fully proofread.

५८
 
शार्ङ्गधरपद्धतिः
 
387
 
यो न ददाति न भुङे सति विभवे नैव तस्य तद्रव्यम् ।
तृणमयकृत्रिमपुरुषो रक्षति सस्यं परस्यार्थे ॥ १० ॥
 
कस्यापि ।
 
388
 
कृपणेन मृतेनापि शवेनेव न दीयते ।
मांसं वर्धयता तेन काकस्योपकृतिः कृता ॥ ११ ॥
 
389
 
उदारचरितस्त्यागी याचितः कृपणोधिकम् ।
 
एको धनं ततः प्राणानन्यः प्राणांस्ततो धनम् ॥ १२ ॥
 
390
 
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क् तस्य तृतीया गतिर्भवति ॥ १३ ॥
 
391
 
नोपभोक्तुमपि क्लीबो जानात्युपचितां श्रियम् ।
ग्राम्यो विरागयत्येव रमयन्नपि कामिनीम् ॥ १४ ॥
 
केषामध्येते ।
 
अथ याचकनिन्दा ॥ २४ ॥
 
392
 
देहीति वक्तुकामस्य यहुःखमुपजायते ।
 
दाता चेत्तद्विजानीयाद्दद्यात्स्वपिशितान्यपि ॥ १ ॥
 
कस्यापि ।
 
393
 
1
 
वेपथुर्मलिनं वक्रं दीना वाग्गद्गदः स्वरः ।
 
मरणे यानि चिह्नानि तानि चिह्नानि याचके ॥ २ ॥
 
व्यासस्य ।