2023-02-25 06:19:10 by ambuda-bot
This page has not been fully proofread.
कृपणनिन्दा
379
यत्करोत्यतिं केशं तृष्णां मोहें प्रजागरम् ।
न तद्धनं कदर्याणां हृदयव्याधिरेव सः ॥ २ ॥
एतौ क्षेमेन्द्रस्य ।
380
मृत्युः शरीरगोतारं वसुरक्षं वसुंधरः ।
दुश्चारिणी च हसति स्वपति पुत्रवत्सलम् ॥ ३ ॥
बाणभहस्य ।
381
नन्दनरेन्द्रद्रविणैर्दुष्कृतमित्र किमपि विहितमतिघोरम् ।
वसुधातलोष्मपाको विरमति नाद्यापि यत्तेभ्यः ॥ ४ ॥
वल्लभदेवस्य ।
382
गाढतरनिबद्धभुटे: कोषनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ ५ ॥
गोभहस्य
383
कृपण समृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः ।
जलसंपदोम्बुराशेर्यान्ति वशं सर्वदैव वडवानेः ॥ ६ ॥
प्रकाशवर्षस्य ।
५७
384
प्राप्तानपि न लभन्ते भोगान्मोक्तुं स्वकर्मभिः कृपणाः ।
मुखपाकः किल भवति द्राक्षापाके बलिभुजां हि ॥ ७ ॥
रविगुप्तस्य ।
385
त्यागभोगविहीनेन धनेन धनिनो याद ।
भवामः किं न तेनैव धनेन धनिनो वयम् ॥ ८ ॥
कस्यापि ।
386
कृपणेन समो दाता न भूतो न भविष्यति ।
अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ ९ ॥
व्यासस्य !