This page has not been fully proofread.

७०२
 
शार्ङ्गधरपद्धतिः
 
4678
 
सहग्रामोद्भवाः खड्डाः सुतीक्ष्णा लववस्तथा ।
निर्त्रणा निर्मलास्तीक्ष्णाचेदिदेशसमुद्भवाः ॥ ५८ ॥
 
4679
 
कालञ्जराः कालसहास्तेषां वक्ष्यामि लक्षणम् ।
 
शतार्धमङ्गलानां तु श्रेष्ठं खद्धं प्रकीर्तितम् ॥ ५९ ॥
 
4680
 
तदर्धे मध्यमं ज्ञेयं ततो हीनं न कारयेत् ।
प्रमाणाभ्यधिकं चैव च्छन्नवंशं तथैव च ॥ ६० ॥
 
4681
 
दीर्घः सुमधुरः शब्दो यस्य खडस्य भार्गव ।
किङ्किणीसदृशस्तस्य धारणं श्रेष्ठमुच्यते ॥ ६१ ॥
 
4682
 
खड़: पद्मपलाशाभो मण्डलायच शस्यते ।
करवीरपलाशायसदृशश्च विशेषतः ॥ ६२ ॥
 
4683
 
महीघृतमुगन्धाश्च पद्मोत्पलसुगन्धिनः ।
वर्णतश्चोत्पलाकाराः सवर्णा गगनस्य च ॥ ६३ ॥
 
4684
 
समाङ्गुलस्था: शस्यन्ते त्रणाः खड़ेषु भार्गव ।
श्रीवृक्षपर्वताकारा लिङ्गपद्मनिभाये ॥ ६४ ॥
 
4685
 
मङ्गल्यानां तथान्येषां सदृशा ये च भार्गव ।
काकोलूकसवर्णाभा विषमाङ्गुलिसंस्थिताः ।
वंशानुगा: प्रशस्ताच न शस्तास्ते कदाचन ॥ ६५ ॥
 
4686
 
खड्डे न पश्येद्रदनं वृथा विवृणुयान च ।
 
न चास्य कथयेन्मूल्यं जातिं देशं कथंचन ॥ ६६ ॥