This page has not been fully proofread.

खङ्ग परीक्षा
 
4669
 
आहते यत्र खड्ढे स्याङ्गुनिः काकस्वरोपमः ।
अं आकारध्वनिर्वा स्यात्स वर्ज्यो नरपुंगवैः ॥ ४९ ॥
 
4670
 
इति निखिलमुदार मर्थ सार्थ-
प्रणिहितमेक मिहेव खड़शास्त्रे ।
गिरिशमतमिदं निषेव्य चक्रे
क्षितिपतिमन्त्रिसमूहचक्रवर्ती ॥ ५० ॥
 
4671
 
अतः परं प्रवक्ष्यामि खड्डलक्षणमुत्तमम् ।
प्रधानदेहसंभूतैर्दैत्यास्थिभिररिंदम ॥ ५१ ॥
 
4672
 
लोहं प्रधानं खड्डायै प्रशस्तं तद्विशेषतः ।
खटखट्टर ऋषिक वंश शूर्पारकेषु च ॥ ५२ ॥
 
4673
 
विदेहेषु तथाङ्गेषु मध्यमग्रामचेदिषु ।
सहग्रामेषु चोनेषु तथा कालञ्जरेषु च ॥ ५३ ॥
 
4674
 
लोहप्रधानं तज्ज्ञानं खड़ानां शृणु लक्षणम् ।
खटीखट्टरजाता ये दर्शनीयास्तु ते मताः ॥ ५४ ॥
 
4675
 
कायच्छिदस्त्वार्षिका ये मर्मन्ना गुरवस्तथा ।
तीक्ष्णाश्छेदसहा वंशा दृढाः शूर्पारकोद्भवाः ॥ ५५ ॥
 
4676
 
असहाचैव विज्ञेयाः प्रभावन्तो विदेहजाः ।
अङ्गदेशोद्भवास्तीक्ष्णा: सुहस्ताः सुदृढास्तथा ॥ ५६ ॥
 
4677
 
७०१
 
लघत्रश्च तथा तीक्ष्णा मध्यमग्रामसंभवाः ।
असारा लघवस्तीक्ष्णाचेदिदेशसमुद्भवाः ॥ ५७ ॥