This page has not been fully proofread.

७००
 
शार्ङ्गधरपद्धतिः
 
नानावर्णेर्युतश्चेत्स भवति नृपतेः शत्रुनाशैकहेतुः
सेतुर्लक्ष्मीप्रवाहे निखिलरिपुकुलध्वंसने धूमकेतुः ॥ ४० ॥
 
लोहरत्नाकरस्यैते ।
 
अथ दोषाः ।
 
4661
 
खड्ङ्गेषु लक्षणं यद्यद्येषु येषु प्रकाशितम् ।
तच्छुद्धं प्रभुसंपत्यै मिश्रितं शत्रुसंपदे ॥ ४१ ॥
 
4662
 
यस्याधो दृश्यते चिह्नं मध्ये येन प्रकाश्यते ।
स्वहितार्य न गृह्णन्ति तं खडूं नरपुंगवाः ॥ ४२ ॥
 
तं
 
4663
 
यस्याये दृश्यते चिह्नं मध्ये नाधोपि दृश्यते ।
खड्डूं मध्यगुणं प्रादुः खड्डूशास्त्रविशारदाः ॥ ४३ ॥
 
4664
 
अधोर्धे लक्षणं यस्य परार्धे नैव दृश्यते ।
 
अधमः स भवेत्खडः क्षितीशानां भयावहः ॥ ४४ ॥
 
4665
 
ऊर्ध्वार्धे लक्षणं यस्य नाघोर्धे लक्षणं भवेत् ।
 
तं खङ्गं मध्यमं प्राहुः प्रवीणमतयो बुधाः ॥ ४५ ॥

 
4666
 
तिर्यग्यस्य भवेच्चिह्नमपि सर्वाङ्गगोचरम् ।
खड्डाधमं तं नृपतिर्दृरादेव विवर्जयेत् ॥ ४६ ॥
 
4667
 
तिर्यविचमधो स्यादुपयर्धे न वा भवेत् ।
नापकृष्टं न प्रकृष्टं तं प्राहु: खड़कोविदाः ॥ ४७ ॥
 
4668
 
अधोर्धे वर्ण एकः स्यादूर्वार्धे भिन्नवर्णकः ।
वर्णसंकरवान्खड़ो नृपाणां भयवर्धनः ॥ ४८ ॥