This page has not been fully proofread.

खङ्गपरीक्षा
 
अथ गुणाः ।
 
4652
 
यस्य यस्य तु यचिह्नं तच्चेत्सर्वाङ्गसुन्दरम् ।
तं खड़मुत्तमं प्राहुः सर्वसंपत्तिकारकम् ॥ ३२ ॥
 
4653
 
अर्धचन्द्राकृतिर्यस्मिन्खड़े स्वाभाविकी भवेत् ।
 
अपि द्रोषसहस्राणि हन्ति चन्द्रस्तमो यथा ॥ ३३ ॥
 
4654
 
गदा चक्रं तथा शूलं डमरुर्मण्डलं तथा ।
यत्र स्वाभाविकं खड़े स खड्ड़ो नृपदुर्लभः ॥ ३४ ॥
 
4655
 
एकवर्णो भवेद्यस्तु लक्षणैकेन संयुतः ।
 
स खड्डुराजो नृपतेर्विज्ञेयः शुभकारकः ॥ ३५ ॥
 
4656
 
पीतं नीलं तथा कृष्णं सचुबीजाकृति तथा ।
यच्च दाडिमबीजाभं तद्वजं प्रवरं विदुः ॥ ३६ ॥
 
4657
 
निम्बकल्को भवेद्यत्र दिवारात्रं विलेपितः ।
मधुरो मधुवर्णाभः स खड़ो देवदुर्लभः ॥ ३७ ॥
 
4658
 
आहते यत्र मधुरो ध्वनिः समुपजाते ।
पूज्य: स खड्डो नृपतेः शत्रुसंचयनाशनः ॥ ३८ ॥
 
4659
 
कांस्यस्वन इवाभाति यस्मिन्खड़े हते ध्वनिः ।
खड्डोत्तमं तं वदति गिरिशः शुभवर्धनम् ॥ ३९ ॥
 
4660
 
यस्मिन्खड़े शरीरं प्रतिफलति यथा खड़राजोभिवन्धो
बन्धोयं देववृन्दैरपि यदि स भवेदर्धचन्द्रोपपत्रः ।
 
६९९