This page has not been fully proofread.

45
 
खङ्ग परीक्षा
 
4637
 
सूक्ष्मं रजतपत्राभमङ्गं कृष्णासि पत्रिका ।
कुटीरकः समाख्यातस्तत्क्षते श्वयथुर्भवेत् ॥ १७ ॥
 
4638
 
केतकीपत्रसदृशमङ्गं यस्य प्रतीयते ।
विद्यात्केतकिवज्रं तु तीक्ष्णधारं महागुणम् ॥ १८ ॥
 
4639
 
निरङ्गं रौप्यपत्राभमीषनीलनिभं च यत् ।
दुर्लभं तन्महामौल्यं कान्तिलोहं प्रचक्षते ॥ १९ ॥
 
4640
 
अङ्गं दमनपत्रामम यस्मिन्प्रतीयते ।
 
विद्यामनवज्रं तु तीक्ष्णधारं महागुणम् ॥ २० ॥
 
4641
 
कृष्णभूमिसुवर्णाभ मीषचाङ्ग संगतम् ।
 
डाहुनीवचकं विद्यात्कालसंज्ञमथापरे ॥ २१ ॥
 
4642
 
ऊर्ध्वगं कपिलाभासमङ्गं यस्मिन्प्रतीयते ।
नकुलाङ्गं तु तं विद्यात्स्पर्शस्तस्याहिनाशनः ॥ २२ ॥
 
4643
 
आसीमा कालिका यस्य क्षुद्राङ्गं कुण्डलीकृतम् ।
क्षुद्रवञ्चकनामानं प्राह नागार्जुनो मुनिः ॥ २३ ॥
 
खड्गकोशस्य ।
 
4644
 
अन्तर्गादं चिह्नहीनं विशालं
मध्ये स्थूलं स्थूलधारातितीक्ष्णम् ।
रक्षोवक्षश्छेदनार्थं महान्तं
 
कृत्वा खडुं देवराजोतिहृष्टः ॥ २४ ॥
 
६९७