This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
4628
 
यस्मिस्तित्तिरपक्षाभमङ्गं लोहे प्रतीयते ।
दुर्लभं तन्महामूल्यं तित्तिराङ्गं सुपाकजम् ॥ ८ ॥
 
4629
 
सुवर्णसदृशाकारा त्वङ्गभूमेः प्रतीयते ।
सुवर्णवज्रकं विद्याद्बहुमूल्यं महागुणम् ॥ ९ ॥
 
4630
 
अविच्छिन्नं सुसूक्ष्माङ्गं दूर्वाभागं सुपाकजम् ।
यस्मिञ्शैवालमालानमाहुस्तं मुनिपुंगवाः ॥ ०॥
 
4631
 
शुक्लं पार्श्वइयं यस्य मध्ये स्वर्णसमाङ्गकम् ।
धूमवत्सीमसंस्थानं मौसलं वज्रकं विदुः ॥ ११ ॥
 
4632
 
मृणालनालप्रतिमं विवरैरग्रसंस्थितैः ।
 
कङ्कोलचत्रकं प्राहुः स्वर्णकं वज्रचिन्तकाः ॥ १२ ॥
 
4633
 
अङ्गं प्रतीयते यत्र बहुप्रन्थिसमन्वितम् ।
दुर्लभं तन्महामूल्यं ग्रन्थिवज्रकमुच्यते ॥ १३ ॥
लोहार्णवस्यैते ।
 
4634
 
रूप्यपत्रसमा भूमिरङ्गं तं प्रतीयते ।
 
तं धवलगिरिं पाण्डि पाण्डिज्ञाः प्रवदन्ति हि ॥ १४ ॥
 
4635
 
तन्वी पत्रावली काला सौवर्णाङ्गासिपत्रिका ।
 
प्राहु कालगिरिं पाण्डि लोहशास्त्रविशारदाः ॥ १५ ॥
 
4636
 
धारा शुभ्रा भवेद्यस्य मध्यं कज्जलसंनिभम् ।
कृष्णैरङ्गैश्रितं गात्रं विद्यात्कज्जलवजकम् ॥ १६ ॥