This page has not been fully proofread.

अथ खड्गपरीक्षा ।
 
4621
 
खालक्ष्मीस्तथा राज्यं यशः खड़ादवाप्यते ।
खड़ा हैरिविनाशश्च यत्नात्तमभिदध्महे ॥ १ ॥
 
aay
 
नकुलस्य ।
 
अथ लक्षणानि ।
 
4622
 
लोहानां लक्षणं वक्ष्ये यथोक्तं मुनिपुंगवैः ।
निरङ्गसाङ्गभेदेन ते लोहा विविधा मताः ॥ २ ॥
 
4623
 
निरङ्गाः काञ्चिपाण्ड्यादिभेदाद्बहुविधा मताः ।
रसकर्मसु ते शस्ता नानाव्याधिविनाशनाः ॥ ३ ॥
 
4624
 
वक्ष्यन्ते प्रायशो यस्मात्साङ्गाः खड्डादिकर्मसु ।
नामभेदेन चिह्नानि लोहानामभिदध्महे ॥ ४ ॥
 
4625
 
क्षुद्राङ्गं सुदृढं यस्य नीलमीषत्प्रतीयते
रोहिणीं तां विजानीयात्तक्षणे बहु वेदनाम् ॥ ५ ॥
 
4626
 
नीलपिण्डसमाङ्गं च नीलपिण्डं विदुर्बुधाः ।
मयूरकण्ठसंस्थानमङ्गं यस्य प्रतीयते ।
मयूरग्रीवकं लोहं तं विदुर्मुनिपुंगवाः ॥ ६ ॥
 
4627
 
नागकेसरपुष्पाभमङ्गं यस्य प्रतीयते ।
मयूरवज्रकं प्राहुर्लोहशास्त्रविदो जनाः ॥ ७ ॥