This page has not been fully proofread.

pr
 
अथ ग्रन्थप्रशंसा ।
 
4617
 
इति विरचितबन्धा पद्धतिर्या मयेयं
सकलगुणिगणानां प्रीतये सास्तु नित्यम् ।
विपुलविमलदीव्यत्सत्कलानां निधानं
तरुणतरणिरुद्धा विद्विषत्कौशिकानाम् ॥ १॥
 
4618
 
क्षीराब्धेः कमलेव केशवपदाद्गङ्गेव साधोर्मुखा-
त्सडाणीव सुधाकरादिव सुधा भानोरिवोदयोतिता ।
माकन्दादिव मञ्जरी जलधराइव या निर्गता
सेयं शार्ङ्गधरात्तनोतु जगतश्चेतोमुदं पद्धतिः ॥ २॥
 
4619
 
अस्याभ्यासाद्रन्थषर्यस्य शिष्यः
सर्वज्ञः स्याद्विस्फुरच्चारुबुद्धिः ।
अर्थ कामं वेत्ति धर्म च मोक्षं
निःसंदेहं शीलितुं पण्डितोपि ॥ ३ ॥
 
4620
 
शास्त्राब्धि सकलं विलोध नितरां ग्रन्थः कृतोयं मया
लोकानन्दकरः समस्त सुकलासंतान
जैवातकः ।
अस्यास्वाद्य सुभाषितामृतरसानानन्दपूर्णान्तरा:
सन्तः संप्रति नाकवासनिरतान्देवान्हसन्तु ध्रुवम् ॥ ४ ॥
 
इति शार्ङ्गधरपद्धतिः समाप्ता