This page has not been fully proofread.

६९२
 
शार्ङ्गधरपद्धतिः
 
4613
 
यथार्करश्मिसंयोगादर्ककान्तो हुताशनम् ।
आविष्करोति नैकः सन्दृष्टान्तः स तु योगिनः ॥ २३ ॥
 
4614
 
मृद्देहिकाल्पदेहापि मुखाग्रेणात्यणीयसा ।
करोति मृगारचयमुपदेशः स योगिनः ॥ २४ ॥
 
4615
 
पिङ्गला कुररः सर्पः सारङ्गान्वेषको वने ।
इषुकारः कुमारी च षडेते गुरवो मताः ॥ २५ ॥
 
4616
 
रुरुशावविषाणाप्रमालोक्य तिलकाकृति ।
सह तेन विवर्धन्ते योगी सिद्धिमुपाभुते ॥ २६ ॥