This page has not been fully proofread.

विदेहमुक्तिकथनम्
 
4604
 
उत्थाप्य भुजगीं शक्ति मूलवातैरधःस्थिताम् ।
सुषुम्णान्तर्गतां पञ्चचक्राणां मेदिनीं शिवाम् ॥ १४ ॥
 
4605
 
जीवं हृदाश्रयं नीत्वा यान्तीं बुद्धिं मनोयुताम् ।
सहस्रदलपद्मस्थशिवे लीनां सुधामये ॥ १५ ॥
 
4606
 
पीत्वा सुधाकरोद्भूतममृतं तेन मूलतः ।
 
सिञ्चन्तीं सकलं देहं प्लावयन्तीं विचिन्तयेत् ॥ १६ ॥
 
4607
 
तया सार्धं ततो योगी शिवेनैकात्मतां व्रजेत् ।
परानन्दमयो भूत्वा चिद्वृत्तिमपि संत्यजेत् ॥ १७ ॥
 
4608
 
ततो लक्ष्यमनाभास महंभावविवर्जितम् ।
सर्वाङ्गकल्पनाहीनं कथं कालो निहन्ति तम् ॥ १८ ॥
 
4609
 
स एव कालः स शिवः स सर्व नापि किंचन ।
कः केन हन्यते तत्र म्रियते नापि कञ्चन ॥ १९ ॥
 
4610
 
ततो व्यतीते समये कालस्य भ्रान्तिरूपिणः ।
 
योगी सुप्तोत्थित इव प्रबोधं याति बोधितः ॥ २० ॥
 
६९१
 
4611
 
एवं सिद्धो भवेद्योगी वञ्चयित्वा विधानतः ।
कालं कलितसंसार पौरुषेणाद्भुतेन हि ॥ २१ ॥
 
4612
 
ततस्त्रिभुवने योगी विचरत्येक एव सः ।
 
पश्यन्संसारवैचित्र्यं स्वेच्छया निरहंकृतिः ॥ २२ ॥