This page has not been fully proofread.

योगिचर्या
 
4552
 
सर्वसङ्गविहीनच सर्वपापविवर्जितः ।
 
जडवन्मूकवद्योगी विचरेत महीतलम् ॥ ६ ॥
 
4553
 
असिधारां विषं वह्निं समत्वे यः प्रपश्यति ।
मालासुधातुषाराणां स योगी कथ्यते बुधैः ॥ ७ ॥
 
4554
 
यस्मिन्स्थाने क्षणं तिष्ठेदीदृग्योगी कथंचन ।
आयोजनं चतुर्दिक्षु पवित्रं तत्प्रचक्षते ॥ ८ ॥
 
4555
 
चतु:सागरपर्यन्तां पृथिवीं यो ददाति च ।
तत्त्वज्ञस्य च यो भिक्षां समां वा नाथवा समाम् ॥ ९ ॥
 
4556
 
आतिथ्ये श्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।
 
महाजने च सिद्धार्थो न गच्छेद्योगवित्कचित् ॥ १० ॥
 
4557
 
जाते विधूमे चाङ्गारे सर्वस्मिन्भुक्तवज्जने ।
अटेत योगविद्भैक्षं न तु तेष्वेव नित्यशः ॥ ११ ॥
 
4558
 
६८५
 
यथैन मवमन्यन्ते जनाः परिभवन्ति च ।
तथा युक्तश्चरेद्योगी सतां धर्ममदूषयन् ॥ १२ ॥
 
4559
 
मैक्षं गृह्णन्गृहस्थेषु श्रोत्रियेषु चरेद्यतिः ।
 
फलमूलं यवाग्वन्नं पयस्तक्रं च सक्तवः ॥ १३ ॥
 
4560
 
ब्रह्मचर्यमलोभश्च दया क्रोध: सुचित्तता ।
 
आहारलाघवं शौचं योगिनां नियमाः स्मृताः ॥ १४ ॥