This page has not been fully proofread.

६८२
 
शार्ङ्गधरपद्धतिः
 
4526
 
अष्टौ यदा तु दृश्यन्ते समन्ताद्देवयोनयः ।
उपसर्गे तमित्या हुर्दैवमुन्मत्तवदुधाः ॥ २२ ॥
 
4527
 
भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः ।
समस्ताधारविभ्रंशामः स परिकीर्तितः ॥ २३ ॥
 
4528
 
आवर्त इव तोयस्य ज्ञानावर्ती यदाकुलः ।
चित्तमास कृतावर्तमुपसर्गः स उच्यते ॥ २४ ॥
 
4529
 
एभिर्नाशितयोगास्तु सकला देवयोनयः ।
उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः ॥ २५ ॥
 
4530
 
प्रावृत्य केवलं युक्तं योगी तस्मान्मनोमयम् ।
चिन्तयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः ॥ २६ ॥
अथ सप्तधारणाः ।
 
4531
 
योगयुक्तः सदा योगी लध्वाहारो जितेन्द्रियः ।
 
सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्ध्नि धारयेत् ॥ २७ ॥
 
4532
 
रित्र धारयेद्योगी ततः सौक्ष्म्यं प्रवर्तते ।
 
आत्मानं मन्यते चोर्वी तद्गन्धं च जहाति सः ॥ २८ ॥
 
4533
 
तथैवाप्सु रसं सूक्ष्मं तद्वद्रूपं च तेजसि ।
 
स्पर्श वायौ तथा तद्विभ्रतस्तस्य धारणाः ॥ २९ ॥
 
4534
 
व्योति सूक्ष्मप्रवृत्तेच शब्द तवज्जहाति सः
मनसा सर्वभूतानां मनश्चाविशते यदा ।
 
मानसीं धारणां बिभ्रन्मनः सौक्ष्म्यं च जायते ॥ ३० ॥