This page has not been fully proofread.

योगिमहिमा
 
4501
 
तक्रयोगाव्यथा क्षीरं काटिन्यमुपगच्छति ।
 
तथा जीवो मनःस्थैर्यात्परं ब्रह्माधिगच्छति ॥ ५ ॥
 
4502
 
यथा हिमप्रभावेण जलं स्त्यानत्वमाप्नुयात् ।
 
तथा मनःस्थिरत्वेन जीवः शिवमयो भवेत् ॥ ६ ॥
 
4503
 
शिवस्य शक्तिर्जीवोस्ति जीवशक्तिर्मनः स्मृतम् ।
जीवं शिवं प्रापयितुं मन एव हि कारणम् ॥ ७ ॥
 
4504
 
जीवः शिवः शिवो जीवो न भेदोस्त्यनयोः क्वचित् ।
मनोलिप्तो भवेज्जीवो मनोयुक्तः सदाशिवः ॥ ८ ॥
एते शार्ङ्गधरस्य ।
 
अथ योगिमहिमा ॥ १६० ॥
 
4505
 
अलौल्यमारोग्यमनिष्ठुरत्वं
 
गन्धः शुभो मूत्रपुरीषमल्पम् । ।
कान्ति: प्रसादः स्वरसौम्यता च
यागप्रवृत्तेः प्रथमं हि चिह्नम् ॥ १ ॥

 
4506
 
अनुरागं जनो याति परोक्षे गुणकीर्तनम् ।
न बिभ्यति च सवानि सिद्धेर्लक्षणमुत्तमम् ॥ २ ॥
 
4507
 
शीतोष्णादिभिरत्युमैर्यस्य बाधा न जायते ।
 
न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता ॥ ३ ॥
 
६७९