This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
4493
 
यथाकाशवदेकात्मा सर्वभावगतोपि सन् ।
 
न भावरञ्जनामेति स महात्मा महेश्वरः ॥ ७४ ॥
 
4494
 
यथा जलं जलेनैक्यानिक्षिप्तमुपगम्यते ।
 
तथात्मा सत्यतामेति योगिनः परमात्मना ॥ ७५ ॥
4495
 
ततो न जायते नैव वर्धते न विनश्यति ।
 
नापि क्षयमवाप्नोति परिणामं न गच्छति ॥ ७६ ॥
 
4496
 
छेदं केदं तथा दाहं शोषं भूरादितो न च ।
भूतचक्रादवामोति शब्दाद्यैर्दृयते न च ॥ ७७ ।
एते पुराणेभ्यो योगशास्त्रेभ्यश्च ।
 
अथ मनःस्थिरीकरणप्रभावः ॥ १५९ ॥
 
4497
 
यदान्यत्र मनो याति ध्यायते योगिनस्तदा ।
तत्रैव हि लयं कुर्याच्छिवः सर्वगतो यतः ॥ १ ॥
 
4498
 
युक्त्यानया भवेचेतश्छिन्नपक्षमचञ्चलम् ।
सर्वत्रेकं शिवं ज्ञात्वा निर्विकल्पं विधीयते ॥ २ ॥
 
4199
 
कामक्रोधादयः सर्वे मतिरक्षाण्यहंकृतिः ।
गुणा विविधकर्माणि विलीयन्ते मनःक्षयात् ।॥ ३ ॥
 
9
 
4500
 
अमनस्कं गते चित्ते जायते कर्मणां क्षयः ।
यथा चित्रपटे दग्धे दह्यते चित्रसंचयः ॥ ४ ॥