This page has not been fully proofread.

यथा वेदे ।
 
द्वितीयो हठयोगः
 
4486
 
तेजः परं द्युतिमतां तमसः परस्ता-
दादित्यवर्णममलं कनकस्वरूपम् ।
आत्मानमात्मनि गतं प्रकृतविभिन्न-
मानन्दमात्रमिति पश्यति यः स मुक्तः ॥ ६७॥
 
4487
 
वेदाहमेतं पुरुषं महान्त-
मादित्यवर्ण तमसः परस्तात् ।
 
तमेव विदित्वाति मृत्युमेति
 
नान्यः पन्था विद्यतेयनाय ॥ ६८ ॥
 
अथ समाधिः ।
4488
 
समाधिः समतावस्था जीवात्मपरमात्मनोः ।
निस्तरंगपदप्राप्तिः परमानन्दरूपिणी ॥ ६९ ॥
 
4489
 
निःश्वासोच्छ्रासयुक्तो वा निस्पन्दोचललोचनः ।
शिवध्यायीं सुलीनच स समाधिस्थ उच्यते ॥ ७० ॥
 
६७७
 
4490
 
न शृणोति यदा किंचिन पश्यति न जिप्रति ।
न च स्पर्श विजानाति स समाधिस्थ उच्यते ॥ ७९ ॥
अथ तुर्यातीतम् ।
 
4491
 
अत्यन्तशुद्धचिन्मात्रे परिणामश्विराय यः ।
तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति ॥ ७२ ॥
 
4492
 
निद्रादी जागरस्यान्ते यो भाव उपपद्यते ।
तद्भावभावतो योगी मुक्तो भवति नान्यथा ॥ ७३ ॥