This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
4477
 
यथा प्रयुक्त ओंकारः प्रतिनिर्याति मूर्धनि ।
तथोंकारमयो योगी अक्षरे त्वक्षरो भवेत् ॥ ५८ ॥
 
4478
 
कुर्वन्नेवं यदा पश्येन्मनोनेत्रेण योगवित् ।
 
हंसं बिन्दुं शिखां ज्योतिस्ततो लयमवाप्नुयात् ॥ ५९ ॥
 
4479
 
ब्रह्मरमुखे सूक्ष्मं निर्विकल्पं परावरम् ।
 
परमं ज्योतिरासाद्य योगी तन्मयतां व्रजेत् ॥ ६० ॥
 
4480
 
निर्विकल्पे पढ़े प्राप्ते जीवे तहयतां गते ।
 
नदयन्ति सर्वकर्माणि तस्मिन्दृष्टे परावरे ॥ ६१ ॥
 
4481
 
वृक्षमूर्ध्नि यथा पक्षी अकस्मादेव दृश्यते ।
 
बुद्धिस्यो दृश्यतामेति झगित्येव तथा विभुः ॥ ६२ ॥
 
4482
 
अग्रतः पृष्ठतो मध्ये पार्श्वतोथ समन्ततः ।
विद्युच्चकितवद्वाति सूर्यकोटिसमप्रभः ॥ ६३ ॥
 
4483
 
रतान्ते स्त्री यथात्मानं क्षणं काहं न बुध्यते ।
रमणोपि न जानाति कोहं योगे तथा पुमान् ॥ ६४ ॥
 
4484
 
शृणोत्याश्चर्यवत्कोपि कोप्याश्चर्यवदीक्षते ।
 
श्रुत्वा दृष्ट्वा तथाप्येनं न सम्यग्वेद कञ्चन ॥ ६५ ॥
 
4485
 
गुरुप्रसादतो लक्ष्यं लब्ध्वा यत्नात्समभ्यसेत् ।
अभ्यासादृश्यते देवो ज्ञानदृष्टया महेश्वरः ॥ ६६ ॥