This page has not been fully proofread.

द्वितीयो हठयोगः
 
4468
 
गुरूपदेशमासाद्य एकस्मिन्स्थानके यदि ।
 
रुध्येते यन्मनोवातौ धारणा साभिधीयते ॥ ४९ ॥
 
4469
 
जितां जितां शनैर्भूमिमारोहेत यथाक्रमम् ।
दोषान्व्याधींस्तथा मोहमादत्ते भूरनिर्जिता ॥ ५० ॥
 
अथ ध्यानम् ।
 
4470
 
शून्येषु चावकाशेषु गुहासु च वनेषु च ।
 
नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥ ५१ ॥
 
4471
 
व्यक्तसङ्गो जितमना लघ्वाहारो जितेन्द्रियः ।
पिधाय बुद्धया द्वाराणि मनो ध्याने नियोजयेत् ॥५२॥
 
4472
 
आत्मानं च जगत्सर्व दृशा नित्याविभिन्नया ।
चिदाकाशमयं ध्यायन्योगी याति परां गतिम् ॥ ५३ ॥
 
4473
 
अथवा प्रोच्यते ध्यान मन्यदेवात्र योगिनाम् ।
 
रहस्यं परमं मुक्तेः कारणं प्रथमं च यत् ॥ ५४ ॥
 
4474
 
वायुवच्चञ्चलं चित्तं स्थिरीकर्ते न शक्यते ।
 
तदर्थ सकले योज्यं तस्माद्भवति निष्कलम् ॥ ५५ ॥
 
4475
 
मूलाधारस्थितं जीवं प्रदीपकलिकाकृतिम् ।
 
प्रणवेन समाकृष्य दशमान्ते निवेशयेत् ॥ ५६ ॥
 
६७५
 
4476
 
ततो जपेच्च प्रणवं मूलाधारात्समुत्थितम् ।
नियति दशमद्वारे मनसादानरूपिणम् ॥ ५७ ॥