This page has not been fully proofread.

५४
 
शाधरपद्धतिः
 
354
 
दुर्जनः परिहर्तव्यो विद्ययालंकृतोपि सन् ।
मणिना भूषितः सर्पः किमतौ न भयंकरः ॥ १० ॥
 
चाणक्यस्य ।
 
355
 
परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते ।
पवनाशिनोपि भुजगाः परोपतापं न मुञ्चन्ति ॥ ११ ॥
 
353
 
नीच: समाश्रितोवश्यमनवाप्य पराश्रयम् ।
 
छिद्रं न रतिमानोति दृष्टान्तोत्र कटीभत्रः ॥ १२ ॥
 
357
 
खलानां कण्टकानां च द्विविधै प्रतिक्रिया ।
उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥ १३ ॥
 
358
 
सुमुखोपि सुवृत्तोपि सन्मार्गपतितोपि सन् ।
 
सतां वै पादलयोपि व्यथयत्येव कण्टकः ॥ १४ ॥
 
359-
अपूर्वः कोपि कोपानिः सज्जनस्य खलस्य च ।
एकस्य शास्यति बेहाइ न्यस्य वारितः ॥ १५ ॥
 
360
 
निमित्तमुद्दिश्य हि यः प्रकुष्यति
ध्रुवं स तस्यापगमे प्रशाम्यति ।
अकारणद्वेषि मनोस्ति यस्य
 
कथं जनस्तं परितोषयिष्यति ॥ १६ ॥
 
361
 
पादाहतोपि दृढदण्डसमाहतो प
 
यं दंष्ट्या स्पृशति तं किल हन्ति सर्पः ।
हर्षादिवेष पिशुनोत्र मनुष्यधर्मा
 
कर्णे परं स्पृशति हन्त्यपरं समूलम् ॥ १७ ॥