This page has not been fully proofread.

६७४
 
शार्ङ्गधरपद्धतिः
 
4460
 
यथा त्यजेत्तथा पूर्व धारयेदनिरोधतः ।
नाडीविशुद्धौ जातायां ततः कुर्याद्यथेच्छया ॥ ४१ ॥
अथ प्रत्याहारः ।
 
4461
 
शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः ।
:
प्रत्याट्रियन्ते योगेन प्रत्याहारस्वतः स्मृतः ॥ ४२ ॥
 
4462
 
सबाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः ।
पूरयित्वा बुधः प्राणौ प्रत्याहारमुपक्रमेत् ॥ ४३ ॥
 
4463
 
रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा !
संछाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् ॥ ४४ ॥
 
4464
 
इन्द्रियाणीन्द्रियार्थेभ्य: प्राणादीन्मन एव च ।
निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥ ४५ ॥
 
4465
 
यस्तु प्रत्याहरेत्कामान्सर्वाङ्गाणीव कच्छपः ।
 
स त्वात्मरतिरकस्थः पश्यत्यात्मानमात्मना ॥ ४६ ॥
 
अथ धारणा ।
 
4466
 
प्राणायामा दश हौ च धारणा साभिधीयते ।
हे धारणे स्मृतो योगो मुनिभिस्तत्त्वदर्शिभिः ॥ ४७ ॥
 
4467
 
आधारजन्मभूतानि हत्कण्ठस्तालुनासिके ।
भ्रूमध्ये मस्तकद्वारं दशस्थानेषु धारणा ॥ ४८ ॥