This page has not been fully proofread.

द्वितीयो हठयोग:
 
4451
 
ध्वस्तिः प्राप्तिस्तथा संवित्प्रसादश्व महामते ।
स्वरूपं चैतेषां कथ्यमानमनुक्रमात् ॥ ३२ ॥
 
4452
 
कर्म गामिष्टदुष्टानां जायते फलसंक्षयः ।
चेतसोर्थक पायत्वाद्यत्र सा ध्वस्तिरुच्यते ॥ ३३ ॥
 
4453
 
ऐहिका मुष्मिकान्का मांल्लोभमोहात्मकांश्च यान् ।
निरुध्यास्ते सदा योगी प्राप्तिः स्यात्सार्वकामिकी ॥ ३४ ॥
 
4454
 
अतीतानागतानथन्विप्रकृष्टतिरोहितान् ।
 
विजानाति यदा योगी तदा संविदिति स्मृता ॥ ३५ ॥
 
4455
 
यान्ति प्रसादं येनास्य मनः पञ्च च वायवः ।
इन्द्रियाणीन्द्रियार्थाश्च स प्रसाद इति स्मृतः ॥ ३६ ॥
 
4456
 
प्राणायामस्य युक्तिस्तु पूर्वाभ्यासस्य कथ्यते ।
यां चक्रुर्मुनयः सर्वे नाडीतंशुद्धिहेतवे ॥ ३७ ॥
 
4457
 
पूर्व दक्षिणहस्तस्य स्वानै पिङ्गलाम् ।
निरुध्य पूरयेद्वायुमिडया तु शनैः सुधीः ॥ ३८ ॥
 
4458
 
यथाशक्ति निरोधेन ततः कुर्याच्च कुम्भकम् ।
पुनस्त्यजेपिङ्गलया शनै रेचनकं मतम् ॥ ३९ ॥
 
६७३
 
4459
 
पुनः पिङ्गलया पूर्वे पूरयेदुदरं शनैः ।
धारयित्वा यथाशक्त्या रेचयेदिडया शनैः ॥ ४० ॥