शार्ङ्गधरपद्धतिः /687
This page has not been fully proofread.
६७२
शार्ङ्गधरपद्धतिः
4442
प्राणायामं विना योगं साधयेद्यस्तु मन्दधीः ।
न स सिद्धगतिं याति पङ्गुजिगतिं यथा ॥ २३ ॥
4443
तस्मात्तु साधनं कुर्यात्प्राणायामस्य योगवित् ।
प्राणापाननिरोधश्च प्राणायामः प्रकीर्तितः ॥ २४ ॥
4444
सव्याहत सप्रणवां गायत्रीं शिरसा सह ।
त्रि: पठेदायतप्राणः प्राणायामः स उच्यते ॥ २५ ॥
4445
चक्षुःस्पन्दनमात्रस्य यावद्वादशसंज्ञिकाः ।
तावन्निरुध्यते प्राणः प्राणायामः स उच्यते ॥ २६ ॥
4446
स्वजानुत: करावर्त याववादश छोटिकाः ।
यावन्निरुध्यते प्राणः प्राणायामः स कीर्तितः ॥ २७ ॥
4447
प्राणायामो लघुस्त्वेको द्विगुणो मध्यमः स्मृतः ।
उत्तमस्त्रिगुणो ज्ञेय इत्येषा वैदिकी स्थितिः ॥ २८ ॥
4448
प्रथमेन जयेत्स्वेदं द्वितीयेन च वेपथुम् ।
विषादं च तृतीयेन जयेदोषाननुक्रमात् ॥ २९ ॥
4449
द्विगुणोत्तरया वृद्धया प्रत्याहारस्तु धारणा ।
ध्यानं समाधिरित्येवं प्राणायामादनुक्रमात् ॥ ३० ॥
4450
तस्मायुक्तः सदा योगी प्राणायामपरो भवेत् ।
श्रूयतां मुक्तिफलदं तस्यावस्थाचतुष्टयम् ॥ ३१ ॥