This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
अथ यमः ।
4426
 
अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहः ।
 
इष्टानिष्टपरा चिन्ता यम एष प्रकीर्तितः ॥ ७ ॥
 
अथ नियमः ।
 
4427
 
स्वाध्यायशौचसंतोषा देवताराधनं तपः ।
 
वैराग्यं च जनासङ्गो नियमोप्येष उच्यते ॥ ८ ॥
 
अवासनम् ।
 
4428
 
नाध्यातः क्षुधितः श्रान्तो न च व्याकुलचेतनः ।
युञ्जीत योगं योगज्ञो नित्यं सिद्धयर्थमादृतः ॥ ९ ॥
 
4429
 
न शीते नाति चैवोष्णे न दुर्गे नाम्बुनस्तटे ।
न सोपद्रवदेशेषु योगं संसाधयेत्कचित् ॥ १० ॥
 
4430
 
एकान्ते विजने रम्ये पवित्रे निरुपद्रवे ।
सुखासने समाधिः स्याद्वखाजिनकुशोत्तरे ॥ ११ ॥
 
4431
 
पद्ममर्धासनं चापि तथा सिद्धासनादिकम् ।
आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि ॥ १२ ।
 
4432
 
समः समासनो भूत्वा संहत्य चरणावुभौ ।
संवृतास्यस्तथा चोरः सम्यग्विष्टभ्य चामतः ॥ १३ ॥
 
4433
 
पाणिभ्यां लिङ्गवृषणावस्पृशन्मयतः स्थितः ।
किंचिदुचामितशिरा दन्तैर्दन्तान संस्पृशेत् ॥ १४ ॥