शार्ङ्गधरपद्धतिः /684
This page has not been fully proofread.
द्वितीयो हठयोग,
4418
अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः ।
युवा भवति वृद्धोपि सततं मूलबन्धनात् ॥ ४७ ॥
अथ दण्डधारणम्
4419
।
पृष्ठबन्धं स्थिरं कुर्यादनत्रं स्थिरसंचयम् ।
दण्डधारणमेतद्धि योगिनां परमं स्मृतम् ॥ ४८ ॥
एते योगशास्त्रेभ्यः ।
अथ मार्कण्डेयादि साधितो द्वितीयों हठयोगः ॥ १५८ ॥
4420
श्लोकार्पेन प्रवक्ष्यामि यच्चोक्तं व्यासकोटिभिः ।
ममेति मूलं दुःखस्य न ममेति च निर्वृतिः ॥ १ ॥
4421
निर्ममत्वं विरागाय वैराग्याद्योगसंगतिः ।
योगाच्च जायते ज्ञानं ज्ञानान्मुक्तिः प्रजायते ॥ २ ॥
4422
उपभोगेन पुण्यानां प्राक्तनानां तथांहसाम् ।
कर्तव्यमिति नित्यानामकामकरणात्तथा ॥ ३ ॥
4423
असंचयादपूर्वस्य क्षयात्पूर्वार्जितस्य च ।
कर्मणो बन्धमानोति शारीरं न पुनः पुनः ॥ ४ ॥
६६९
4424
अथेह कथ्यतेस्माभिः कर्मणा येन बन्धनम् ।
छिद्यते सदुपायेन श्रुत्वा तत्र प्रवर्त्यताम् ॥ ५ ॥
4425
अष्टावङ्गानि योगस्य यमो नियम आसनम् ।
प्राणायामः प्रत्याहारो धारणा ध्यानतन्मयः ॥ ६ ॥