This page has not been fully proofread.

६६८
 
शार्ङ्गधरपद्धतिः
 
अथ जालंधरम् ।
 
4411
 
कण्ठ माकुञ्च्य हृदये स्थापयेद्दृढमिच्छया ।
जालंधरो बन्ध एष सुधाव्ययनिवारणः ॥ ४० ॥
 
4412
 
नाभिस्थोग्निः कपालस्थसहस्रकमलाच्युतम् ।
अमृतं सर्वदा सर्वे पिवञ्ज्वलति देहिनाम् ॥ ४१ ॥
 
4413
 
:
 
यथा सोग्निस्तदमृतं न पिबेत्तद्विधिस्त्रयम् ।
याति पश्चिममार्गेण एवमभ्यसतः सदा ।
अमृतीकुरुते देहं जालंधरमिति स्मृतम् ॥ ४२॥
 
अथोड्डीयाणम् ।
 
4414
 
उड्डीयाणं तु सहजं कथितं गुरुणा सदा ।
अभ्यसेदस्ततन्द्रस्तु वृद्धोपि तरुणो भवेत् ॥ ४३ ॥
 
4415
 
नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः ।
 
पण्मासाभ्यासतो मृत्युं जयत्येव न संशयः ॥ ४४ ॥
 
अथ मूलबन्धः ।
 
4416
 
मूलवन्धं च यो नित्यमभ्यसेत्स हि योगवित् ।
गुदं पार्ष्या तु संपीय
वायुमा कुञ्चयेद्वलात् ।
वारं वारं यथा चोर्ध्व समायाति समीरणः ॥ ४५ ॥
 
4417
 
प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् ।
 
गत्वा योगस्य संसिद्धिं गच्छतो नात्र संशयः ॥ ४६ ॥