This page has not been fully proofread.

हठयोगः
 
4403
 
अर्थाभावे त यज्ज्ञानं प्रत्यक्षमिव दृश्यते ।
तु
 
गन्धर्वनगराकारं स्वमं तदुपलक्षयेत् ॥ ३२ ॥
 
4404
 
जाग्रत्स्वमावुभावेतौ नित्यं यंत्र प्रतिष्ठितौ ।
उत्पत्तिः प्रलयश्चैत्र सौषुप्तमवधारयेत् ॥ ३३ ॥
 
4405
 
जीवाभावो विनिद्रा च द्वयं यत्र न विद्यते ।
तत्तुरीयामेति प्रोक्तमुत्पत्तिलयवर्जितम् ॥ ३४ ॥
 
4406
 
अथ देहं स्थिरीकर्तुं योगिनां सिद्धिमिच्छताम् ।
कथ्यन्ते शुद्धकर्माणि यैः सिद्धिं प्रापुरुत्तमाः ॥ ३५ ॥
 
4407
 
महामुद्रां नभोमुद्रामुड्डीयाणं जालंधरम् ।
मूलबन्धं स्थिरं दण्डं यः करोति स सिध्यति ॥ ३६ ॥
 
अथ महामुद्रा ।
 
4408
 
पाणि तु वामपादस्य योनिस्थाने नियोजयेत् ।
प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम् ॥ ३७ ॥
 
६६७
 
4409
 
चिबुकं हृदि विन्यस्य पूरयेद्वायुना पुनः ।
कुम्भकेन यथाशक्त्या धारयित्वा तु रेचयेत् ।
वामाङ्गेन समभ्यस्य दक्षिणाङ्गेन चाभ्यसेत् ॥ ३८ ॥
अथ नभोमुद्रा ।
 
4410
 
अन्तः कपालविवरे जिह्वामाकुञ्च्य चार्पयेत् ।
भ्रूमध्यवृष्टिरमृतं पिबेत्खेचर मुद्रया ॥ ३९ ॥