शार्ङ्गधरपद्धतिः /681
This page has not been fully proofread.
शार्ङ्गधरपद्धतिः
अथ वायुधारणा ।
4396
नासाभ्रूमध्यदेशे तु वायुं तथैव धारयेत् ।
वायवी धारणा सेयं मृत्युस्तस्य न वायुना ॥ २५ ॥
अथाकाशधारणा ।
4397
भ्रूमध्यस्योपरिष्टाच्च धारयेत्पञ्च नाडिकाः ।
वायुं योगी प्रयत्नेन सेयमाकाशधारणा ॥ २६ ॥
4398
आकाशधारणां कुर्वन्मृत्युं जयति निश्चितम् ।
यत्र तत्र स्थितो वापि सुखमत्यन्तमञ्जुते ॥ २७ ॥
अथ ध्यानम् ।
4499
वायुः परिचितो यत्नादमिना सह कुण्डलीम् ।
बोधयित्वा सुषुम्णायां प्रविशेदग्निरोधतः ॥ २८ ॥
4400
महापथं प्रविश्यैवं शून्यस्थाने लयं व्रजेत् ।
यदा तदा भवेद्योगी त्रिकालामलदर्शनः ॥ २९ ॥
अथ समाधिः ।
4401
यदेतद्ध्यानमाख्यातं तच्चेत्परिणमव्यपि ।
चैतन्यानन्दरूपेण स समाधिरुदीरितः ॥ ३० ॥
।
अथ जाग्रत्स्वमसुषुप्तितुरीयावस्थाः
4402
बुद्धिपूर्व तु यज्ज्ञानं बाहेर्विषयसेवितम् ।
प्रत्यक्षमनिरुद्धं च तज्जागरितमुच्यते ॥ ३१ ॥