This page has not been fully proofread.

43
 
हठयोगः
 
4390
 
एतानि सर्वदा तस्य न जायन्ते ततः परम् ।
 
स्त्रीसङ्गं वर्जयेद्यत्नाद्विन्दुं रक्षेत्प्रयत्नतः ।
आयुःक्षयो बिन्दुनाशादसामर्थ्य च जायते ॥ १९ ॥
 
अथ प्रत्याहारः ।
 
4391
 
विषयद्वारनिष्क्रान्तं यावत्स्वविषयान्प्रति ।
 
चित्तं निवार्यते यत्र प्रत्याहारः स उच्यते ॥ २० ॥
 
अथ पञ्च धारणाः ।
4392
 
गुरूपदेश तश्चित्तमेकस्मिन्स्थानके यदि ।
 
वायुश्च रुध्यते यत्र धारणा सा विधीयते ॥ २१ ॥
 
अथ पृथ्वीधारणा ।
 
4393
200
 
नाभेरघो गुदस्योर्ध्वं घटिकाः पञ्च धारयेत् ।
वायुं ततो लभेत्पृथ्वीधारणां तद्भयापहाम् ।
पृथिवीसंभवो मृत्युर्न भवेदस्य योगिनः ॥ २२॥
अथ जलधारणा ।
 
4394
 
नाभिस्थाने ततो वायुं धारयेत्पञ्च नाडिकाः ।
ततो जलाइयं नास्ति जलमृत्युर्न योगिनः ॥ २३ ॥
अथ तेजोधारणा ।
 
4395
 
नाभ्यूर्ध्वमण्डले वायुं धारयेत्पन्च नाडिकाः ।
आमेयी धारणा सेयं मृत्युस्तस्य न वह्निना ॥ २४ ॥
 
६६५