This page has been fully proofread once and needs a second look.

दुर्जननिन्दा
 

347
 

परितोषयिता न कश्चन

स्वगतो यस्य गुणोस्ति देहिनः ।

परदोषकथाभिरल्पक:
 

स्वजनं तोषयितुं किलेच्छति ॥ ३ ॥
 

348
 

सहजान्धदृशः स्वदुर्नये

परदोषेक्षणदिव्यचक्षुषः ।

स्त्रगुणोच्चगिरो मुनित्व्रताः

परवर्णग्रर्णेष्वसाधवः ॥ ४ ॥
 

एतौ माघकवेः ।
 

349
 

विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।

यदयं नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥ ५ ॥
 

350
 

अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।

तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥६॥

एतौ सुबन्धोः ।
 

351
 

लब्धोच्छायो नीचः प्रथमतरं स्वामिनं पराभवति ।

भूमिरजो रथ्यादावुत्थापकमेव संवृणुते ॥ ७ ॥
 

एष रविगुप्तस्य ।
 

352
 

उपकृतमनेन सुहृदयमित्यसतामस्ति न क्वचिदपेक्षा ।

होतुः स्त्रहस्तमाश्रितमुद्दृत्तीवृत्तोग्निर्दहत्येव ॥ ८ ॥
 

353
 

विषमा मलिनात्मानो द्विजिह्वा जिह्मगा इव ।
 

जगत्माप्राणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥ ९ ॥

हरिगणस्य ।