This page has not been fully proofread.

दुर्जननिन्दा
 
347
 
परितोषयिता न कश्चन
स्वगतो यस्य गुणोस्ति देहिनः ।
परदोषकथाभिरल्पक:
 
स्वजनं तोषयितुं किलेच्छति ॥ ३ ॥
 
348
 
सहजान्धदृशः स्वदुर्नये
परदोषेक्षणदिव्यचक्षुषः ।
स्त्रगुणोच्चगिरो मुनित्रताः
परवर्णमहर्णेष्वसाधवः ॥ ४ ॥
 
एतौ माघकवेः ।
 
349
 
विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः ।
यदयं नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥ ५ ॥
 
350
 
अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥६॥
एतौ सुबन्धोः ।
 
351
 
लब्धोच्छायो नीचः प्रथमतरं स्वामिनं पराभवति ।
भूमिरजो रथ्यादावुत्थापकमेव संवृणुते ॥ ७ ॥
 
एष रविगुप्तस्य ।
 
352
 
उपकृतमनेन सुहृदयमित्यसतामस्ति न कचिदपेक्षा ।
होतुः स्त्रहस्तमाश्रितमुद्दृत्तीनिहत्येव ॥ ८ ॥
 
353
 
विषमा मलिनात्मानो द्विजिह्वा जिझगा इव ।
 
जगत्माणहरा नित्यं कस्य नोद्वेजकाः खलाः ॥ ९ ॥
हरिगणस्य ।