शार्ङ्गधरपद्धतिः /679
This page has not been fully proofread.
६६४
शार्ङ्गधरपद्धतिः
4381
प्राणायामानरः षष्टिं कुर्यादेवमहर्मुखे ।
चत्वारिंशच्च मध्याते संध्यायां विंशतिर्भवेत् ।
अर्धरात्रे विंशतिः स्यादेवं प्राणविनिग्रहः ॥ १० ॥
1382
शरीरलघुता दीप्तिर्जठराग्निविवर्धनम् ।
कृशत्वं च शरीरस्य जायते वै ध्रुवं तदा ॥ ११ ॥
4383
लवणं सरसं साम्लमुष्णं रूक्षं च तीक्ष्णकम् ।
स्त्रीसेवामग्निसेवां च बह्वाशित्वं च वर्जयेत् ॥ १२ ॥
4384
क्षीरं घृतं च मृष्टान्नं मिताहारश्च शस्यते ।
मितोक्तिः : पवनाभ्यासो निद्रायाश्च जयस्तथा ॥ १३ ॥
4385
केवले कुम्भके सिद्धे रेचपूरकवर्जिते ।
न तस्य दुर्लभं किंचित्रिषु लोकेषु विद्यते ॥ १४ ॥
4386
ततोधिकतराभ्यासाद्भवतः स्वेदकम्पने ।
ततोधिकतराभ्यासाद्द।दुरी जायते ध्रुवम् ॥ १५ ॥
4387
यथैव दर्दुरो गच्छेदप्लुत्योरप्लुत्य भूतले ।
पद्मासनस्थितो योगी तथा गच्छति भूतले ॥ १६ ॥
4388
ततोधिकतराभ्यासाद्भूमित्यागश्च जायते ।
स्वल्पं वा बहु वा भुक्त्वा योगी न व्यथते तदा ॥ १७
4389
अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते ।
कोटिलो दृषिका लाला स्वेदो दुर्गन्धिता तनो: ॥ १८ ॥