This page has not been fully proofread.

६६२
 
शार्ङ्गधरषद्धतिः
 
4365
 
पूर्वाभ्यस्तौ मनोवातौ मूलाधारानेकुञ्चनात् ।
पश्चिमे दण्डमार्गे तु शङ्न्यिन्तः प्रवेशयेत् ॥ १९ ॥
 
4366
 
ग्रन्थित्रयं भेदयित्वा नीत्वा भ्रमरकंदरम् ।
 
ततस्तु नादजो बिन्दुस्ततः शून्ये लयं व्रजेत् ॥ २० ॥
 
4367
 
अभ्यासात्तु स्थिरस्वान्त ऊर्ध्वरेताश्च जायते ।
परानन्दमयो योगी जरामरणवर्जितः ॥ २१ ॥
 
4368
 
अथवा मूलसंस्थानामुदतैस्तु प्रबोधयेत् ।
सुप्तां कुण्डलिनीं शक्तिं बिसतन्तुनिभाकृतिम् ॥ २२ ॥
 
4369
 
सुषुम्णान्तः प्रवेश्यैव पञ्च चक्राणि भेदयेत् ।
तत: शिवे शशाङ्काभे स्फुरनिर्मलतेजसि ॥ २३ ॥
 
4370
 
सहस्रदलपद्मान्त:स्थिते शक्ति नियोजयेत् ।
 
अथ तत्सुधया सर्वो सबाह्याभ्यन्तरां तनुम् ॥ २४ ॥
 
4371
 
प्रावयित्वा ततो योगी न किंचिदपि चिन्नयेत् ।
तत उत्पद्यते तस्य समाधिर्निस्तरंगितः ।
 
एवं निरन्तराभ्यासाद्योगी सिद्धः स जायते ॥ २५ ॥
 
एवं शार्ङ्गधरस्य ।
 
अथ हठयोगः ॥ १५७॥
 
4372
 
द्विधा हट: स्यादेकस्तु गोरक्षादिसुसाधितः ।
अन्यो मृकण्डपुत्राद्यैः साधितोनिशमुद्यैनैः ॥ १ ॥