This page has not been fully proofread.

योगः
 
६६१
 
4357
 
षष्टं तु तालुकाचक्रं घण्टिकास्थानमुच्यते ।
दशमद्वारमार्ग तु राजदन्तं च तज्जगुः ।
 
तत्र शून्ये लयं कृत्वा मुक्तो भवति निश्चितम् ॥ ११ ॥
 
4358
 
भ्रूचक्रं सप्तमं विद्याद्विन्दुस्थानं च तद्विदुः ।
भ्रुवोर्मध्ये वर्तुलं च ध्यात्वा ज्योतिः प्रमुच्यते ॥ १२ ॥
 
4359
 
अष्टमं ब्रह्मरन्ध्रं स्यात्परं निर्वाणसूचकम् ।
तद्ध्यात्वा सूचिकाग्राभं धूमाकारं विमुच्यते ।
तच जालंधरं ज्ञेयं मोक्षदं लीनचेतसाम् ॥ १३ ॥
 
4360
 
:
 
नवमं ब्रह्मचक्रं स्याइलैः षोडशभिर्युतम् ।
संविद्रूपा च तन्मध्ये शक्तिरूव स्थिता परा ।
तत्र पूर्णगिरी पीठे शक्ति ध्यात्वा विमुच्यते ॥ १४ ॥
 
4361
 
एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः ।
सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ॥ १५ ॥
 
4362
 
कोदण्डद्वयमध्यस्थं पश्यन्ति ज्ञानचक्षुषा ।
कदम्बगोलकाकारं ब्रह्मलोकं व्रजन्ति ते ॥ १६ ॥
 
4363
 
ऊर्ध्वशक्तिनिपातेन अधः शक्तनिकुञ्चनात् ।
 
मध्यशक्तिप्रबोधेन जायते परमं सुखम् ॥ १७ ॥
अथ राजयोगः ।
 
4364
 
दत्तात्रेयादिभिः पूर्वं साधितोयं महात्मभिः ।
राजयोगो मनोवायू स्थिरौ कृत्वा प्रयत्नतः ॥ १८ ॥