This page has not been fully proofread.

६६०
 
शार्ङ्गधरपद्धतिः
 
4349
 
ब्रह्मविष्णुशिवादीनां मन्त्रजाप्यविशारदैः ।
साध्यते मन्त्रयोगस्तु वत्सराजादिभिर्यथा ॥ ३ ॥
अथ लययोगः ।
 
4350
 
कृष्णद्वैपायनाद्यैस्तु साधितो लयसंज्ञितः ।
नवस्वेव हि चक्रेषु लयं कृत्वा महात्मभिः ॥ ४ ॥
 
4351
 
प्रथमं ब्रह्मचक्रं स्यात्रिरावर्त भगाकृति ।
अपाने मूलकन्दाख्ये कामरूपं च तज्जगुः ॥ ५ ॥
 
4352
 
तदेव वह्निकुण्डं स्याच्छक्ति: कुण्डलिनी तथा ।
तां जीवरूपिणीं ध्यायेज्ज्योतिष्कां मुक्तिहेतवे ॥ ६ ॥
 
4353
 
स्वाधिष्ठानं द्वितीयं स्याचक्रं तन्मध्यगं विदुः ।
पश्चिमाभिमुखं लिङ्गं प्रवालाङ्करसंनिभम् ।
तत्रोडीयाणपीठे तु तद्ध्यात्वा कर्षयेज्जगत् ॥ ७ ॥
 
4354
 
तृतीयं नाभिचक्रं स्यात्तन्मध्ये भुजगी स्थिता ।
पञ्चावर्ता मध्यशक्तिचिद्रूपा विद्युदाकृतिः ।
तां ध्यात्वा सर्वसिद्धीनां भाजनं जायते बुधः ॥ ८ ॥
 
4355
 
चतुर्थं हृदये चक्रं विज्ञेयं तदधोमुखम् ।
ज्योतीरूपं च तन्मध्ये हंसं ध्यायेत्प्रयत्नतः ।
 
तं ध्यायतो जगत्सवै वश्यं स्यान्नात्र संशयः ॥ ९ ।
 
4356
 
पञ्चमं कण्डचक्रं स्यात्तत्र वामे इडा भवेत् ।
दक्षिणे पिङ्गला ज्ञेया सुषुम्णा मध्यतः स्थिता ।
तत्र ध्यात्वा शुचिर्ज्योतिः सिद्धीनां भाजनं भवेत् ॥ १०॥