This page has not been fully proofread.

६५८
 
शार्ङ्गधरपद्धतिः
 
4332
 
निर्गच्छन्नेव वपुषो गृह्यते यमकिंकरैः ।
 
ते तं नयन्ति बहुधा भीषयन्तो यमान्तिकम् ॥ ६२ ॥
 
4333
 
पञ्चेन्द्रियमनोबुद्धितन्मात्रैर्भूतपञ्चकैः ।
 
पुनः कर्मशरीरेण प्रयाति यमसंनिधिम् ॥ ६३ ॥
 
4334
 
ततो यमाज्ञया स्वर्ग नरकं वा प्रपद्यते ।
अवशिष्टेन पुण्येन पापेन च समन्वितः ।
तेभ्यो निर्गत्य भूतेषु जायते कर्मतः पुनः ॥ ६४ ॥
 
4335
 
एवं कदाचिन्नरकं स्वर्ग योन्यन्तराण्यपि ।
 
प्रयान्ति जीवा मोहेन मोहिता भवसंकटे । ६५ ॥
ते योगरसायनात
 
4336
 
एते हि जीवाश्चिद्भावा भने भावनया हिताः ।
 
ब्रह्मणः कलिताकाराः सहस्रायुतकोटिशः ॥ ६६ ॥
 
4337
 
संख्यातीताः पुरा जाता जायन्तेद्यापि चाभितः ।
उत्पत्स्यन्तेपि चैवान्ये कणौधा इत्र निर्झरात् ॥ ६७ ॥
 
4338
 
स्ववासनावशावेशादाशाविवशतां गताः ।
 
दशास्वतिविचित्रासु स्वयं निगडिताशयाः ॥ ६८ ॥
 
4339
 
अनारतं प्रतिदिशं प्रतिदेशं जले स्थले ।
 
जायन्ते च म्रियन्ते च बुहुदा इत्र वारिणि ॥ ६९ ॥
 
4340
 
केचित्प्रथम जन्मानः केचिज्जन्मशताधिकाः ।
 
केचिचासंख्य जन्मानः केचित्रिभवा नराः ॥ ७० ॥