This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
4314
 
प्राणो हि दशधा ह्येष दशानामथवा प्रभुः ।
वासप्ततिसहस्रासु नाडीषु विचरत्यलम् ॥ ४४ ॥
 
4315
 
हृदि प्राणो गुदेपानः समानो नाभिसंस्थितः ।
उदानः कण्ठदेशे च व्यानं: सर्वशरीरगः ॥ ४५ ॥
 
4316
 
सर्वाङ्गमोटको नागः कूर्म उन्मेषकारकः ।
कृकः क्षुतोद्वारकरी देवदत्तस्तु जृम्भकः ।
धनंजयो नादकरः स्यादेवं दशधा मरुत् ॥ ४६ ॥
 
4317
 
येन जीवति जीवोयं निर्जीवो यं विना भवेत् ।
स प्राण इति विख्यातो वायुः क्षेत्रचरः परः ॥ ४७ ॥
 
4318
 
कन्दाग्रात्प्रोत्थितः प्राणः सदा वहति देहिनाम् ।
हद्गतं जीवमाश्वास्य बहिर्गत्वा निवर्तते ॥ ४८ ॥
 
4319
 
पिङ्गलेडापथं गत्वा पीत्वा च गगनामृतम् ।
निवृत्य जीवं संतर्प्य पुनः कन्दे प्रवर्तते ॥ ४९ ॥
 
4320
 
अपानेन पुनः कश्चित्प्रेरितः कालरूपिणा ।
निःश्वासोच्छवासकृद्वाति जपन्हंसे त्यहर्निशम् ॥ ५० ॥
 
4321
 
हंस द्वादशदले जीवात्मा हृदयाम्बुजे ।
तिष्ठन्करोति चैतन्यथोतं दीपो घंटे यथा ॥ ५१ ॥
 
4322
 
बद्धः कर्मगुणैबुद्धिसंयुतः त्रिगुणात्मकः ।
याही पञ्चेन्द्रियार्थानां मनोदूतेन सर्वदा ॥ ५२ ॥