This page has not been fully proofread.


 
4305
 
तमसोन्ते परं ज्योतिरलक्ष्यः परमेश्वरः ।
 
यं दृष्ट्वैव विलीयन्ते योगिनः स्थिरचेतसः ॥ ३५ ॥
 
4306
 
चराचरेषु पिण्डस्थं पदस्थं खानिलादिषु ।
भास्करादिषु रूपस्थं रूपातीतं परं विदुः ॥ ३६ ॥
 
4307
 
वासप्ततिसहस्राणि कन्दान्नायो विनिर्गताः ।
प्रविश्य नाभिदेशेषु सर्वाङ्गेषु ततो गताः ॥ ३७ ॥
 
4308
 
इडा च पिङ्गला चैव सुषुम्णा च सरस्वती ।
गान्धारी हस्तिजिह्वा च पूषा चैव निगद्यते ॥ ३८ ॥
 
4309
 
६५५
 
अलम्बुषा कुधैव शनिी दशमी मता ।
एता: प्राणवहा ज्ञेयाः प्रधाना दश नाडिकाः ॥ ३९ ॥
 
4310
 
इडा नासापुढे वामे पिङ्गला दक्षिणे भवेत् ।
सुषुम्णा तालु भित्त्वैव ब्रह्मद्वारं प्रवर्तिता ॥ ४० ॥
 
4311
 
सरस्वती च जिह्वायां गान्धारी वामकर्णके ।
दक्षिणे हस्तिजिह्वाख्या पूषा वामे च लोचने ॥ ४१ ॥
 
4312
 
अलम्बुषा दक्षिणे स्याद्भुजारे कुहूर्भवेत् ।
आ ब्रह्मरन्ध्रान्मार्गेण ब्रह्मदण्डस्य शदिनी ।
सदा बिन्दुवहा ज्ञेया लिङ्गद्वारे च शनी ॥ ४२ ॥
 
4313
 
प्राणोपानः समानश्च उदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनंजयः ॥ ४३ ॥