This page has not been fully proofread.

५२
 
शार्ङ्गधरपद्धतिः
 
339
 
न वित्तं दर्शयेत्याज्ञः कस्यचित्स्वल्पमप्यहो ।
मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ ८ ॥
एते विष्णुशर्मणः ।
 
340
 
लक्ष्म्या परिपूर्णोईन भयं मेस्तीति मोहनिया ।
परिपूर्णस्यैवेन्दोर्भवति भयं सिंहिकानोः ॥ ९ ॥
 
341
 
भक्त द्वेषो जडे प्रीतिर रुविर्गुरुलङ्घनम् ।
 
मुखे च कटुता नित्यं धनिनां ज्वरिणामित्र ॥ १० ॥
 
342
 
आलिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पाये ।
अव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥ ११ ॥
 
343
 
पतन्ति खड्गधारासु विशन्ति मकरालयम् ।
किं न कुर्वन्ति सुभगे कष्ट मर्यार्थिनो जनः ॥ १२ ॥
 
344
 
गुणयुक्तोप्यधो याति रिक्तः कूपे घटो यथा ।
निर्गुणोपि भृतः पश्य जनैः शिरसि धार्यते ॥ १३ ॥
 
केषाम येते ।
 
अथ दुर्जननिन्दा ॥ २२ ॥
 
345
 
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ १ ॥
 
346
 
न विना परवादेन रमते दुर्जनो जनः ।
 
काकः सर्वरसान्मुक्तका विनामेध्यं न तृप्यति ॥ २ ॥
 
ती व्यासस्य ।