This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
4296
 
सर्वज्ञोपि शिवस्तत्र शक्तिसङ्गेन मोहितः ।
नात्मानं न परं वेत्ति विचेष्टति तदिच्छया ॥ २६ ॥
 
4297
 
प्राणापानमयी शक्तिः षट्चक्राधारसंयुतम् ।
शान्तं शिवं वशीकृत्य वर्तते कामकारतः ॥ २७ ॥
 
4298
 

 
आधारः कन्दमित्युक्तं स्वाधिष्टानं च जन्मभूः
नाभिस्तु मणिपूराख्यं हृदयं विद्ध्यनाहतम् ॥ २८ ॥
 
4299
 
विभुद्धिः कण्ठ इत्युक्तमाज्ञाचक्रं भ्रुवोन्तरे ।
आधारो हि चतुर्भिन्नः स्वाधिष्ठानं च षडुलैः ॥ २९ ॥
 
4300
 
दशभिर्मणिपूराख्यं द्वादशैस्तु अनाहतम् ।
विभुद्धिः षोडशैर्भिन्नमाज्ञाचक्रं इयेन तु ॥ ३० ॥
 
4301
 
कालाग्निरुद्र आधारे शक्तिः कुण्डलिनी तथा ।
आनन्दाख्या स्वधिष्ठाने शक्त्या कामाख्यया सह ॥ ३१ ॥
 
4302
 
नाभौ ब्रह्मा हृदि श्रीशः कण्डे रुद्रो व्यवस्थितः ।
ईश्वरो लम्बिकायां च तद्ध्वें च सदाशिवः ॥ ३२ ॥
 
4303
 
ज्योतिःस्थानानि चैतानि षटुचक्राणि जगुर्बुधाः ।
• नासामूलं विदुः स्थानं नादस्योत्पत्तिकारणम् ॥ ३३ ॥
 
4304
 
तस्योर्ध्वं योगिनीचक्रं तदूर्ध्वे शक्तिरास्थिता ।
 
शत्यू तु शिखा प्रोक्ता शिखान्ते धूमवत्तमः ॥ ३४ ॥