This page has not been fully proofread.

शारीरम्
 
4287
 
भगस्तु वैष्णवी शक्तिर्लिङ्गरूपी सदाशिवः ।
उभयोयोगतो बीजं ब्रह्मरूपं प्रवर्तते ॥ १७ ॥
 
4288
 
गर्भाशयो धरापीठं रजो रक्तं च भास्करः ।
सौम्यं रेतो ब्रह्मरूपं तस्मिंस्तत्र विलम्बते ॥ १८ ॥
 
4289
 
सूर्याचन्द्रमसोर्योगममावास्यां विदुर्बुधाः ।
 
तस्यां प्रजाः प्रजायन्ते यदीच्छा पारमेश्वरी ॥ १९ ॥
 
4290
 
शुक्रशोणितसंयोगो यदैत्र किल जायते ।
 
तदा संजायते जीवो वह्निः सूर्यमणेरिव ॥ २० ॥
 
4291
 
युक्रेधिके भवेत्पुत्रो कन्या रक्तेधिके भवेत् ।
नपुसकं समत्वेन कर्मणो नियतिर्यथा ॥ २१ ॥
 
4292
 
अङ्गप्रत्यङ्गभागेन ततः पिण्डः प्रजायते ।
चर्मणाच्छादितः सप्त धातवः स्युरनुक्रमात् ॥ २२ ॥
 
4293
 
पिण्डं मज्जासुपूर्णानामस्न्यां षष्टिशतैस्त्रिभिः ।
वासप्ततिसहस्राभिर्नाडीभिः पञ्ञ्जरं कृतम् ॥ २३ ॥
 
4294
 
क्रियाशक्त्या विना क्वापि ज्ञानशक्तिर्न दृश्यते ।
तेनेदं ज्ञानशचयर्थ कृतं वेश्म क्रियामयम् ॥ २४ ॥
 
4295
 
चतुर्विंशतिभिस्तत्त्वैः क्रियाशक्तिरचेतना ।
 
ज्ञानशक्त्या युता वापि लक्ष्यते चेतनावती ॥ २५ ॥
 

 
६५३