This page has not been fully proofread.

६५२
 
शार्ङ्गधरपद्धतिः
 
4278
 
तेन सृष्टं स्वशक्त्येदं त्रैलोक्यं सचराचरम्, ।
पञ्चभिः सह संभूय पञ्चभूतमयात्मकैः ॥ ८ ॥
 
4279
 
ततो ब्रह्मा द्विधा भूतः शिवशक्तिविभागतः ।
स्त्रीपुंरूपेण सौख्यार्थं सुरतेनासृजत्प्रजाः ॥ ९ ॥
 
4280
 
ततश्चतुर्मुखस्यामन्दश पुत्रा मनोभवाः ।
 
तेषां दश ददौ कन्या मनोजाताः प्रजापतिः ॥ १० ॥
 
4281
 
ते सर्वे ज्ञाननिरताः सुसंतुष्टास्तपोधनाः ।
तेषां पुत्रैश्च पौत्रैश्च व्याप्तं सर्वमिदं जगत् ॥ ११ ॥
 
4282
 
तत आत्मभुवः पुत्रो मरीचिरिति योभवत् ।
दशपुत्रेषु विख्यातस्तस्माज्जातश्च कश्यपः ॥ १२ ॥
 
4283
 
सोपि दक्षस्य कन्यासु कश्यपः समजीजनत् ।
उत्पत्तिहेतुर्विश्वस्य भूतग्रामांचतुर्दश ॥ १३ ॥
 
4284
 
अष्टधा देवतायोनिस्तिर्यग्योनिश्च पञ्चधा ।
 
एकधा मानुषी योनिरिमे भूताश्चतुर्दश ॥ १४ ॥
 
4285
 
तैजसा देवकार्येषु बभूवुः सप्त धातवः ।
अन्येषामपि कार्येषु पार्थिवाः सप्त धातवः ॥ १५ ॥
 
4286
 
सर्वे मिथुनरूपेण प्रजा उत्पादयन्ति ते ।
मैथुनानन्दनिरता विषयासक्तचेतसः ॥ १६ ॥