This page has not been fully proofread.

६५०
 
शार्ङ्गधरपद्धतिः
 
4262
 
खचतुष्कं रदा वेदाधतुर्युगमुदाहृतम् ।
चातुर्युगेकसप्रत्या मन्वन्तर मुदाहृतम् ॥ ५ ॥
 
4263
 
चतुर्भिरर्बुदै: कल्पं द्वात्रिंशद्भिश्च कोटिभिः ।
चतुर्दश सुरेन्द्राथ पतन्ति ब्रह्मणोहनि ॥ ६ ॥
 
4264
 
चतुर्युगसहस्रेण कल्पाख्यं ब्रह्मणो दिनम् ।
तत्प्रमाणा तथा रात्रि: सृष्टिसंहारकारिणी ।॥ ७॥
 
4265
 
अथ कालाग्निरुद्रस्य तृतीयनयनोत्थिता ।
ज्वाला दहति तत्सर्व निर्वाणं ब्रह्मणो यतः ॥ ८ ॥
 
4266
 
स्वपतो ब्रह्मणः स्वेदाङ्क्रमिरेकार्णवा भवेत् ।
 
निःश्वासैः भुष्यते सापि सृजेत्सुप्नोत्थितः पुनः ॥ ९ ॥
 
4267
 
स्वकालपरिमाणेन पूर्ण वर्षशते किल ।
 
ब्रह्मादीनां तथा शक्तः क्षयो जन्म पुनः पुनः ॥ १० ॥
 
4268
 
ब्रह्मा हरौ हरी रुद्रे रुद्रो लीयत ईश्वरे ।
 
ईश: सदाशिवे सोपि शक्तौ शक्तिः परे शिवे ॥ ११ ॥
 
4269
 
पुनः सृष्टिः पुनर्नाशः पुनः कल्पपरम्परा ।
पुनः पुनरिदं सर्व चक्रवत्परिवर्तते ॥ १२ ॥
 
4270
 
ये तत्र लीना: परमे पदे शिवे
मुक्किं गता देवि त एव नापरे ।