This page has not been fully proofread.

42
 
कालसंख्यानम्
 
4254
 
यच्चास्ति मितगम्भीर न तेजो न तमिस्रकम् ।
अनाख्यमनभिव्यक्तं तद्रूपं पारमात्मिकम् ॥ ७६ ॥
 
4255
 
नेन्द्रियाणि न वा रूपं न मनः परिकल्पना ।
यत्सर्वं न च यत्सर्वं तद्रूपं पारमात्मिकम् ॥ ७७ ॥
 
4256
 
परमाणोरपि परं तदणीयो ह्यणीयसः ।
 
शुद्धं सूक्ष्मं परं शान्तं तदाकाशोदरादपि ॥ ७८ ॥
 
4257
 
एतद्रहस्यं परममेतच्च परमं पदम् ।
 
एषा गतिर्विरक्तानामेषोसौ परमः शिवः ॥ ७९ ॥
एते वासिष्ठात् ।
 
अथ कालसंख्यानम् ॥ १५४ ॥
 
4258
 
षड: प्राणै: पलं प्रोक्तं षष्टिभिर्घटिका च तैः ।
षष्टिभिर्घटिकाभिः स्यादहोरात्रं तु मानवम् ॥ १ ॥
 
4259
 
दिनैः पञ्चदशैः पक्षः शुक्लः कृष्णश्च गीयते ।
पक्षहयेन मास: स्यात्पितॄणां तदहर्निशम् ॥ २ ॥
 
4260
 
ऋतुर्मासइयेनैव षण्मासैरयनं स्मृतम् ।
अयनद्वितयं वर्षो देवानां वासरो निशा ॥ ३ ॥
 
4261
 
तात्रिंशत्सहस्रैस्तु चतुर्लक्षैः कलिः स्मृतः ।
 
शेषं युगत्रयं ज्ञेयं कलेर्द्वित्रिचतुर्गुणम् ॥ ४ ॥
 
६४९