This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
4245
 
मुधैवैते वयमहो ससुरासुरमानवाः ।
 
असत्या एव वल्गामो याम आयाम एव च ॥ ६७ ॥
 
4246
 
अलीक एव त्वद्भावो मद्भावोलीक एव च ।
अनुभूतोप्यसद्रूपः स्वप्ने स्वमरणं यथा ॥ ६८ ॥
 
4247
 
शरीरातीतवृत्तिस्त्वं शरीरस्थो भवाभवः ।
मा गाः शोकं च हर्षं च त्वमात्मा विगतज्वरः ॥ ६९ ॥
 
4248
 
यथा रजोभिर्गगनं यथा कमलमम्बुभिः ।
 
न लिप्यतेतिसंश्लिष्टैर्देहैरात्मा तथैव च ॥ ७० ॥
 
4249
 
बहि: कृत्रिमसंरम्भो हृदि संरम्भवर्जितः ।
 
कर्ता बहिरकर्तान्तर्लोके विहर राघव ॥ ७१ ॥
 
4250
 
देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः ।
अजाड्यसंचिन्मननं तन्मयो भव राघव ॥ ७२ ॥
 
4251
 
विविक्तः शान्तसंकल्पो धीरधीरूजिताशयः ।
यथाप्राप्तानुवर्ती च लोके विहर राघव ॥ ७३ ॥
 
4252
 
भूयतां ज्ञानसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
भागेच्छामात्रको बन्धस्तत्यागो मोक्ष उच्यते ॥ ७४ ॥
 
4253
 
प्राप्य ज्ञानदशामेतां पशुम्लेच्छादयोपिये ।
 
सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः ॥ ७५ ॥