This page has not been fully proofread.

अयोपदेशः
4236
 
शान्तस्यापगतेच्छस्य मनाक्संवेदनात्मकम् ।
 
स्वाभाविकं यत्स्फुरणं चियोम्नः सोङ्ग जीवकः ॥ ५८ ॥
 
4237
 
यथा वातस्य चलनं कृशानोरुष्णता यथा ।
शीतता वा तुषारस्य तथा जीवत्वमात्मनः ॥ ५९ ॥
 
4238
 
जीवत्वाच्चित्तसांगत्यं
 
चित्तत्वादिन्द्रियादिता ।
 
19 इन्द्रियादेः शरीरत्वं शरीरात्कर्मसंचयः ॥ ६० ॥
 
4239
 
कर्मणः संचयात्स्वर्गनरको मोक्षबन्धने ।
 
कर्मणो जायते जन्तुर्बीजादिव नवाङ्कुरः ॥ ६१ ॥
 
4240
 
जन्तोः प्रवर्तते कर्म पुनर्बीजमिवाङ्गरात् ।
आदिसहि नियतिर्भाववैचित्र्यमक्षयम् ।
 
अनेनेत्थं सदा भाव्यमिति संपद्यते परम् ॥ ६२ ॥
 
ANDARD
 
4241
 
अनुत्कीर्णा यथा पङ्के पुत्रिका वाथ दारुणि ।
वर्णा यथा मषीकल्के तथा सर्गे स्थिताः परे ॥ ६३ ॥
 
4242
 
कटकत्वं पृथग्धेम्नस्तरंगत्वं पृथग्जलात् ।
 
यथा न संभवत्येवं न जगत्पृथगीश्वरात् ॥ ६४ ॥
 
६४७
 
4243
 
ताप एव यथा वारि मृगाणां भ्रमकारणम् ।
असत्यमेव सत्याभं तथा मूढमतेर्जगत् ॥ ६५ ॥
 
4244
 
न किंचित्केनचिद्याप्तं न च किंचित्कचित्स्थितम् ।
विदाकाशगजं शान्तं सर्वमेतदभित्तिमत् ॥ ६६ ॥