This page has not been fully proofread.

६४६
 
शार्ङ्गधरपद्धतिः
 
4227
 
तस्मात्प्रजागरः कार्यः प्रबुद्धेन दिवानिशम् ।
 
न मुष्णन्ति च्छलाद्यस्मात्कामक्रोधादयोरयः ॥ ४९ ॥
पते वासिष्ठात ।
 
4228
 
पुरमेकं जगत्यस्मिन्नसृङ्कांसास्थिनिर्मितम् ।
वर्मभित्ति महायामं सर्वतः स्नायुवेष्टितम् ॥ ५० ॥
 
4229
 
नवद्वारं महाभूतैः पञ्चभिः सर्वतो वृतम् ।
नृपश्च पुरुषस्तत्र चेतनावानवस्थितः ॥ ५१ ॥
 
4230
 
मन्त्रिणौ तस्य बुद्धिश्च मनश्चैव विरोधिनौ ।
यतेते तस्य नाशाय तावुभावितरेतरम् ॥ ५२॥
 
4231
 
नृपस्य तस्य चत्वारो नाशमिच्छन्ति विद्विषः ।
काम: क्रोधस्तथा लोभो मोहचान्यो महारिपुः ॥ ५३ ॥
 
4232
 
यदा तु स नृपस्तानि द्वाराण्यावृत्य तिष्ठति ।
तदा स्वस्थबलश्चैव निरातङ्कश्च जायते ॥ ५४ ॥
 
4233
 
एते मार्कण्डेयपुराणात् ।
 
जयत्यावरतारम्भा नियतिः
 
परमात्मनः ।
 
यद्रशादिदमाभोगि जगचक्रं प्रवर्तते ॥ ५५ ॥
 
4234
 
यश्च सर्वात्मको देवः परं ब्रह्म महेश्वरः ।
स्वच्छ : स्वानुभवानन्दरूपाकारादिवर्जितः ॥ ५६ ॥
 
4235
 
एतस्मात्परमानन्दाच्छुद्धचिन्मात्ररूपिणः ।
जीव: संजायते पूर्व तस्माचित्तं ततो जगत् ॥ ५७ ॥