This page has been fully proofread once and needs a second look.


अथ
धनप्रशंसा
 
अथ धनप्रशंसा
॥ २१ ॥
 

332
 

जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु

शीलं शैलतटात्पतत्वभिजन: संदह्यतां वह्निा ।
निना ।
शौर्ये वैरिणि वचमाशु निपतत्वर्थोस्तु नः केवलं

येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ १ ॥
 
333
 

333
यस्यास्ति वित्तं स नरः कुलीनः

स पण्डितः स श्रुतवान्गुणज्ञः ।

स एव वक्ता स च दर्शनीयः

सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ २ ॥

एतौ भर्तृहरेः ।
 

334
 

वयोवृद्धास्तपोवृद्धा ज्ञानवृद्धास्तु ये परे ।
 

ते सर्वे धनवृद्धस्य द्वारे तिष्ठन्ति किंकराः ॥ ३ ॥
 

चाणक्यस्य ।
 

335
 

हेतुप्रमाणयुक्तं वाक्यं न श्रूयते दरिद्रस्य ।

अव्यतिपरुमसत्यं पूज्यं वाक्यं समृद्धस्य ॥ ४ ॥
 

क्षेमेन्द्रस्य ।
 

336
 

अर्थार्थी जीवलोकोयं श्मशानमपि सेवते ।

जनितारमपि त्यक्त्वा निःस्वं गच्छति दूरतः ॥ ५॥
 

337
 

न सा विद्या न तच्छीलं न तद्दानं न सा कला ।
भर्या

अर्था
र्थिमिभिर्न तच्छर्यछौर्यं धनिनां यन्न कीर्त्यते ॥ ६ ॥
 

338
 

यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि ।

आकाशे पक्षिमिश्चैव तथा सर्वत्र वित्तवान् ॥ ७ ॥
 
५१